Thursday, June 23, 2011

Patanjali Yogasutras_2. साधन पादः

१. तपः स्वाध्याय ईश्वरप्रणिधानानि क्रियायोगः ।

२. समाधि भावनार्थः क्लेश तनू-करणार्थः च ।

क्रियायोगात् --> समाधि भावना, क्लेश तनू करणम्

३.अविद्या -अस्मिता-राग-द्वेष-अभिनिवेशाः क्लेशाः ।

पञ्च क्लेशाः  = अविद्या --> अस्मिता --> राग --> द्वेष --> अभिनिवेश

४. अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्न-उदाराणाम् ।

प्रसुप्त - तनु - विच्छिन्न-उदार --> चतस्रः अवस्थाः

५. अनित्य-अशुचि-दुःख-अनात्मसु नित्य-शुचि-सुख-आत्म ख्यातिः अविद्या ।

नित्य  --> कालातीतः,
शुचि --> त्रिगुणेभ्यः शुचि
सुख --> क्लेश अतीतः
आत्म  --> पुरुष स्वरूपः

६. दृक्-दर्शनशक्त्योः एकात्मता इव अस्मिता ।

दृक् शक्ति-- पुरुषः
दर्शन शक्ति - बुद्धिः (अन्तःकरणाः)

७. सुख अनुशयी रागः ।

८. दुःख अनुशयी द्वेषः ।

९. स्वरसवाही विदुषः अपि तथा आरूढः अभिनिवेशः ।

१०.ते प्रति-प्रसव हेयाः सूक्ष्माः

प्रति-प्रसव = अविद्या <-- अस्मिता <-- राग <-- द्वेष <-- अभिनिवेश

११. ध्यान हेयाः तद् वृत्तयः ।

१२. क्लेशमूलः कर्माशयः दृष्ट-अदृष्ट जन्म वेदनीयः ।

१३. सति मूले तद् विपाकः  जाति-आयुः-भोगाः ।

१४. ते ह्लाद-परिताप फलाः पुण्य-अपुण्य हेतुत्वात् ।

१५. परिणाम-ताप-संस्कार-दुःखैः गुण-वृत्ति विरोधात् च दुःखम् एव सर्वं विवेकिनः ।

१६. हेयं दुःखम् अनागतम् ।

सञ्चित - प्रारब्ध - आगामि कर्माः
आगामि कर्मेभ्यः दुःखं हेयम् ।

१७.  द्रष्टृ-दृश्ययोः संयोगः हेयहेतुः ।

द्र्ष्टृ - पुरुष + दृश्य - प्रकृति --> संयोगः --> अस्मिता

१८. प्रकाश-क्रिया-स्थिति-शीलम्   भूत-इन्द्रिय-आत्मकं   भोग-अपवर्ग-अर्थं दृश्यम् ।

प्रकाश <-- सत्त्व   +   क्रिया <-- रजो   +   स्थिति <-- तमो
भूत -- पञ्चभूतानि (स्थूल & सूक्ष्म ) +   इन्द्रिय -- दशेन्द्रियानि

१९.  विशेष-अविशेष लिङ्गमात्र-अलिङ्गानि गुण पर्वाणि ।

गुण पर्वाणी ==>> विशेष -> अविशेष -> लिङ्गमात्र -> अलिङ्ग

वितर्क समाधि --> विशेष ----- स्थूल भूतानि (आकाश-वायु-अग्नि-अप्-पृथ्वी ; श्रोत्र-त्वक्-चक्षु-जिह्व-घ्राण; वाग्-पाणि-पाद-पायु-उपस्थ; मनस् ) --- मनोमय कोश
विचार समाधि --> अविशेष ----- तन्मात्रानि (सूक्ष्म भूतानि -- आकाश ; वायु ; अग्नि ; अप् ; पृथ्वी ) --- विज्ञानमय कोश
आनन्द समाधि --> लिङ्गमात्र ----- बुद्धि (महत्) --- आनन्दमय कोश
अस्मिता समाधि --> अलिङ्गानि ----- प्रधानं, मूलप्रकृति --- विदेह, प्रकृतिलयाः

२०. द्र्ष्टा दृशिमात्रः शुद्धः अपि प्रत्यानुपश्यः ।

२१. तदर्थः एव दृश्यस्य आत्मा ।

२२. कृतार्थं प्रति नष्टम् अपि अनष्टं तत् अन्य साधरणत्वात् ।

कृतार्थानाम् --> (प्रकृति) नष्टम्
अन्येषाम् --> (प्रकृति) अनष्टम्

२३. स्व-स्वामि-शक्त्योः स्वरूप-उपलब्धि हेतुः संयोगः ।
स्व = प्रकृति, स्वामि = पुरुष
स्वरूप-उपलब्धि = पुरुषस्य निजरूपार्थम् , हेतुः --> संयोगः (प्रकृति-पुरुषयोः)

२४. तस्य हेतुः अविद्या ।

संयोग कारणम् --> अविद्या

२५. तद्-अभावात् संयोग-अभावः हानं तद् दृशेः कैवल्यम् ।

तद्-अभावात् = अविद्यायाः अभावात् --> संयोगस्य अभावः
तद् हानं = संयोगस्य हानं --> दृशेः कैवल्यम्

२६. विवेकख्यातिः अविप्लवा हान-उपायः ।

अविप्लवा = अविच्छिन्न  --> विवेकख्याति (नित्य-अनित्य विवेक ज्ञानम्) --> संयोगस्य हानं

२७. तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ।

कार्यविमुक्त सञ्ज्ञाः --> ४
१. जिज्ञासा निवृत्ति (ज्ञेय-शून्य अवस्था)
२.जिहासा निवृत्ति (हेय-शुन्य अवस्था)
३.प्रेप्सा निवृत्ति (प्राप्य-प्राप्त अवस्था)
४.चिकीर्षा निवृत्ति (चिकीर्षा-शून्य अवस्था)
चित्तविमुक्त सञ्ज्ञाः --> ३
१.चित्त कृतार्थता (दुःख निवृत्ति)
२.गुणलीनता (भय निवृत्ति)
३.आत्मस्थिति (केवल चैतन्यम्)

२८. योगाङ्ग अनुष्ठानात् अशुद्धि-क्षये ज्ञान-दीप्तिः आविवेकख्यातेः ।

२९. यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः अष्टौ अङ्गानि ।
यम -> नियम -->
आसन -> प्राणायम ->
प्रत्याहार ->
धारणा -> ध्यान -> समाधि

३०. अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाः यमाः ।

३१. जाति-देश-काल-समय-अनवच्छिन्नाः सार्वभौमाः महाव्रतम् ।

३२. शौच-सन्तोष-तपः-स्वाध्याय-ईश्वरप्रणिधानानि नियमाः ।

३३. वितर्क बाधने प्रतिपक्ष भावनम् ।

प्रतिपक्ष भावनम् यत् , अग्रिम सूत्रे दर्शितम् 

३४. वितर्काः हिंसादयः ; कृत-कारित-अनुमोदिताः, लोभ-क्रोध-मोह-पूर्वकाः, मृदु-मध्य-अधिमात्राः ; दुःख-अज्ञान-अनन्त-फलाः ; इति प्रतिपक्ष भावनम् ।

३५. अहिंसा प्रतिष्ठायां तत् सन्निधौ वैरत्यागः ।

३६. सत्य प्रतिष्ठायां क्रियाफलाश्रयत्वम् ।

३७. अस्तेय प्रतिष्ठायां सर्व रत्न उपस्थानम् ।

३८. ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः ।

३९. अपरिग्रह स्थैर्ये जन्म कथन्ता सम्बोधः ।

४०. शौचात् स्वाङ्ग जुगुप्सा, परैः असंसर्गः ।

४१. सत्त्वशुद्धि-सौमनस्य-एकाग्र्य-इन्द्रियजय-आत्मदर्शन-योग्यत्वानि च ।

सत्त्वशुद्धि -- सत्त्व गुण शुद्धि, रजो-तमो गुण न्यूनीकरणम्

४२. सन्तोषात् अनुत्तम्मः लाभः ।

४३. काय-इन्द्रिय-सिद्धिः अशुद्धिक्षयात् तपसः ।

तपस् --> अशुद्धिक्षयः --> कायेन्द्रियसिद्धिः

४४. स्वाध्यायात् इष्टदेवता सम्प्रयोगः ।

४५. समाधि-सिद्धिः ईश्वर-प्रणुधानात् ।

ईश्वरप्रणिधान --> परवैरग्यम्

४६. स्थिर-सुखम् आसनम् ।

४७. प्रयत्न-शैथिल्य अनन्त-समापत्तिभ्याम् ।

अनन्तः --> आदिशेषः, सहस्रशीर्षम् , आकाशः, अनन्त-प्राणशक्ति (यतः पृथ्वी स्व-कक्ष्याम् स्थिरम् चलति).

४८. ततः द्वन्द्व-अनभिघातः ।

द्वन्द्व --> शीतोष्णम्, सुखदुःखम्, मानावमानम् ...

४९. तस्मिन् सति श्वास-प्रश्वासयोः गति-विच्छेदः प्राणायामः ।

तस्मिन् --> आसन सिद्ध्याम्
श्वास -- पूरक ; प्रश्वास -- रेचक
कुम्भक  --> सहित कुम्भक ; केवल कुम्भक
     सहित कुम्भक --> अष्ट कुम्भकाः --> सूर्यभेदनम् - उज्जायि - सीत्कारि - शीतलि - भस्त्रिका - भ्रामरि - मूर्च्छा - प्लावनि

प्राणायामः --> प्राणमय कोश

५०. बाह्य-अभ्यन्तर-स्थम्भ-वृत्तिः देश-काल-सङ्ख्याभिः परिदृष्टः दीर्घ-सूक्ष्मः ।

 >> १. बाह्य (रेचक) २. अभ्यन्तर (पूरक) ३. स्थम्भ (कुम्भक) ४. केवल कुम्भक


५१. बाह्य-अभ्यन्तर विषय-आक्षेपी चतुर्थः ।

>> ४. केवल कुम्भकम्

५२. ततः क्षीयते प्राकाश-आवरणम् ।

प्राणमय कोशस्य आवरणम् क्षीयते

५३. धारणासु च योग्यता मनसः ।

प्राणायाम --> धारणा --> ध्यान --> समाधि

५४. स्व-विषय-असम्प्रयोगे चित्त-स्वरूप-अनुकारः इव इन्द्रियाणां प्रत्याहारः ।

विषयाः --> शब्द-स्पर्श-रूप-रस-गन्धाः

भूतानि  <--> इन्द्रियानि <--> तन्मात्रानि <---> चित्त (मनस् )-- बुद्धि

५५. ततः परमा वश्यते इन्द्रियाणाम् ।

Patanjali Yogasutras_1. समाधि पादः

१. अथ योगानुशासनम् ।

२. योगः चित्तवृत्तिनिरोधः ।

दोषानि --> १. अतिव्याप्ति, २. अव्याप्ति, ३. असम्भवम् --> नाशनम् भवेत् ।
चित्त-भूमिकाः  --> १. क्षिप्त, २. मूढ, ३. विक्षिप्त, ४. एकाग्र, ५. निरुद्ध
क्षिप्त  - रजो प्रधानम्
मूढ - तमो प्रधानम्
विक्षिप्त - रजो + तमो
एकाग्र - सत्त्व गुण प्रधानम् --> सम्प्रज्ञात समाधि स्थिति
निरुद्ध - त्रिगुणातीतम --> असम्प्रज्ञात समाधि स्थिति


३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ।

बिम्ब - प्रतिबिम्ब - उपाधि <=> पुरुष - प्रकृति - अन्तःकरण
अहं ब्रह्मास्मि । तत्त्वमसि । सोऽहम् ।

४. वृत्ति सारूप्यम् इतरत्र ।

५. वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ।

६. प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ।

७. प्रत्यक्षानुमानागमाः प्रमाणानि ।
अन्यत्र -- प्रत्यक्ष - अनुमान - आगम - उपमान - अर्थापत्ति - अनुपलब्दि

प्रम  (यथार्थ ज्ञानम् ) x भ्रम (= अप्रम )
अनुमान प्रमाण --> पक्षम् - साध्यम् - हेतुः - दृष्टान्तम्
 आगम प्रमाण - आप्त वाक्यम् (वेद वाक्यम्)

८. विपर्ययो मिथ्याज्ञानम् अतद्रूप प्रतिष्ठम् ।

९. शब्द ज्ञानानुपाती वस्तुशून्यो विकल्पः ।

१०.  अभाव प्रत्ययालम्बना वृत्तिर्निद्रा ।
- तमो गुण प्रभावात्

"जागृति - सुप्त - स्वप्न - तुरीय" अवस्थाः

११. अनुभूत विषयासम्प्रमोषः स्मृतिः ।

१२. अभ्यास वैराग्याभ्यां तन्निरोधः ।

१३. तत्र स्थितौ यत्नः अभ्यासः ।
यम - नियम -- आसन - प्राणायाम - प्रत्याहार -- धारण - ध्यान - समाधि

१४. स तु दीर्घकाल नैरन्तर्य सत्कार आसेवितो दृढभूमिः ।

१५. दृष्टानुश्रविक विषय वितृष्णस्य वशीकार संज्ञा वैराग्यम् ।

वैराग्यम् --> १. अपर वैराग्यम्, २. परवैराग्यम्
अपर वैराग्यम् --> १. यतमान , २. व्यतिरेक , ३. एकेन्द्रिय , ४. वशीकार

१६. तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ।
-- पर वैराग्यम्  -- गुणातीत स्थिति --> असम्प्रज्ञात स्थिति

१७. वितर्क विचार आनन्द आस्मित आरूपानुगमात् सम्प्रज्ञातः ।

समाधि --> १. सम्प्रज्ञात समाधि , २. असम्प्रज्ञात समाधि
  सम्प्रज्ञात --- वितर्क -> विचार -> आनन्द -> आस्मित
     वितर्क -- सवितर्क, निर्वितर्क --> पञ्चभूतानि, इन्द्रियानि विषये ध्यानम्
     विचार -- सविचार, निर्विचार --> तन्मात्रानि विषये ध्यानम्
     आनन्द -- सत्त्व गुण प्रधान स्थिति, अहङ्कार एव...
     आस्मित -- सत्त्व गुणम् एव... पुरुषस्य प्रतिबिम्बम् दृश्यते --> प्रकृतिलयाः, विदेहाः
 
साङ्ख्य  दर्शनात् --
पुरुष (२५) === प्रकृति (२४) => बुद्धि (महत्) + अहङ्कार + मनस् (२३,२२,२१) => पङ्च तन्मात्रानि + पङ्च भूतानि +  दश इन्द्रियानि (५ + ५+ १०)



१८. विरामप्रत्ययाभ्यासपूर्वः संस्कार शेषः अन्यः ।

विराम प्रत्ययम् -> पर वैराग्यम्
अन्यः --> असम्प्रज्ञात समाधि स्थितिः, तु संस्कार शेषः


असम्प्रज्ञात -- भव प्रत्ययम् , उपाय प्रत्ययम्

१९. भवप्रत्ययो विदेहप्रकृतिलयानाम् ।

विदेह-प्रकृतिलयानाम् --> भव प्रत्ययम्

२०. श्रद्धा वीर्य स्मृति समाधि प्रज्ञा पूर्वक इतरेषाम् ।

इतरेषाम् = अन्येषाम् (विदेह - प्रकृतिलयेभ्यः  भिन्नाः) --> उपाय प्रत्ययम्
उपायाः --> श्रद्धा - वीर्य - स्मृति - समाधि - प्रज्ञा

२१. तीव्र संवेगानाम् आसन्नः ।

मृदु  --> मृदु - मध्य - तीव्र
मध्य --> मृदु - मध्य - तीव्र
अधिमात्र --> मृदु - मध्य - तीव्र

२२. मृदु मध्य अधिमात्रत्वात् ततोऽपि विशेषः ।

२३. ईश्वर प्रणिधानात् वा ।

२४. क्लेश कर्म विपाक आशयैः अपरामृष्टः पुरुष विशेषः ईश्वरः ।

क्लेशाः --> अविद्या- अस्मिता - राग - द्वेष - अभिनिवेशः
कर्म --> धर्म - अधर्म (सञ्चित - प्रारब्ध - आगामि)
विपाक --> कर्म फलम् -- जाति - आयुः - भोगः
आशयैः --> संस्कारैः

२५. तत्र निरतिशयं सर्वज्ञत्व बीजम् ।

२६. स पूर्वेषाम् अपि गुरुः कालेन अनवच्छेदात् ।

२७. तस्य वाचकः प्रणवः ।

प्रणवः -- > ॐ

२८. तत् जपः तत् अर्थ भावनम् ।

ॐ --> तत् जपः, अर्थः, भावन्म्

२९. ततः प्रत्यक्-चेतन-अधिगमोऽपि अन्तरायः अभावश्च ।

प्रत्यक् चेतना (-->०<--)
पराङ्ग चेतना (<--० -->)

ते  अन्तरायाः --> व्याधि-स्त्यान-..., तेषाम् अभावः

३०. व्याधि-स्त्यान-संशय-प्रमाद-आलस्य-अविरति-भ्रान्ति दर्शन-अलब्ध भूमिकत्व-अनवस्थितत्वानि चित्तविक्षेपाः तेऽन्तरायाः ।

     ९ चित्त विक्षेपाः अन्तरायाः

३१. दुःख-दौर्मनस्य-अङ्गमेजयत्व-श्वासप्रश्वासाः विक्षेप सहभुवः ।

३२. तत् प्रतिषेधार्थम् एक तत्त्व अभ्यासः ।

एक तत्त्व -- ईश्वर तत्त्व - ॐ कार

३३. मैत्री-करुणा-मुदित-उपेक्षेणां सुख-दुःख-पुण्य-अपुण्य-विषयाणां भावनातः चित्त प्रसादनम् ।

३४. प्रच्छर्दन विधारणाभ्यां वा प्राणस्य ।

प्रच्छर्दन --> रेचकम्
विधारण --> कुम्भकम्

३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ।

नासाग्रे - गन्ध सम्बन्ध प्रवृत्ति
जिह्वाग्रे - रस प्रवृत्ति
तालु - रूप प्रवृत्ति
जिह्व मध्ये - स्पर्श प्रवृत्ति
जिह्व  मूले - शब्द प्रवृत्ति

३६. विशोका वा ज्योतिष्मती ।

हृद्गुहे अष्टदल कमलम् --- रेचकात् अधोमुखतः -> ऊर्ध्वमुखम्

३७. वीतराग विषयं वा ।

वीतरागानाम् विषयम्

३८. स्वप्न-निद्रा ज्ञानालम्बनं वा ।

३९. यथा अभिमत ध्यानात् वा ।

४०. परमाणु परममहत्त्व अन्तः अस्य वशीकारः ।

४१.क्षीणवृत्तेः अभिजातस्य इव मणेः ग्रहीतृ-ग्रहण-ग्राह्येषु तत्स्थ तदञ्जनता समापत्तिः ।

४२. तत्र शब्द-अर्थ-ज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ।

सबीज समाधि -->
     सवितर्का - निर्वितर्का
     सविचार -निर्विचार
     सानन्द
    सास्मिता

४३. स्मृति परिशुद्धौ स्वरूप शून्य इव अर्थ मात्र निर्भासा निर्वितर्का ।

स्थूल भूत सम्बन्धम् --> सवितर्क-निर्वितर्का
सूक्ष्मभूत सम्बन्धम् --> सविचार-निर्विचारा

४४. एतया एव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ।

४५. सूक्षमविषयत्वं च अलिङ्ग पर्यवसानम् ।

अलिङ्ग -- प्रधान तत्त्वम् ,

४६. ता एव सबीजः समाधिः ।

सवितर्क + निर्वितर्क + सविचार + निर्विचार --> सबीज

४७.  निर्विचार वैशारद्ये अध्यात्म प्रसादः ।

४८. ऋतम्भरा तत्र प्रज्ञा ।

सत् --> ऋतम्, सत्यम्

४९. शृत-अनुमान प्रज्ञाभ्याम् अन्य विषया विशेष अर्थत्वात् ।

५०.तज्जः संस्कारः अन्य संस्कार प्रतिबन्धी ।

तत् --> सजीव समाधि, तज्जः -- तस्मिन् जनितः

५१. तस्यापि निरोधे सर्वनिरोधात् निर्बीजः समाधिः ।
सर्व संस्कार निरोधात्--> निर्बीज समाधिः

(इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः)

Sunday, June 5, 2011

Patanjali Yogasutras


योगेन चित्तस्य, पदेन वाचां, मलं शरीरस्य च वैद्यकेन  ।
योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥

१. समाधि पादः
२. साधन पादः
३. विभूति पादः
४. कैवल्य पादः