१. अथ योगानुशासनम् ।
२. योगः चित्तवृत्तिनिरोधः ।
दोषानि --> १. अतिव्याप्ति, २. अव्याप्ति, ३. असम्भवम् --> नाशनम् भवेत् ।
चित्त-भूमिकाः --> १. क्षिप्त, २. मूढ, ३. विक्षिप्त, ४. एकाग्र, ५. निरुद्ध
क्षिप्त - रजो प्रधानम्
मूढ - तमो प्रधानम्
विक्षिप्त - रजो + तमो
एकाग्र - सत्त्व गुण प्रधानम् --> सम्प्रज्ञात समाधि स्थिति
निरुद्ध - त्रिगुणातीतम --> असम्प्रज्ञात समाधि स्थिति
३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ।
बिम्ब - प्रतिबिम्ब - उपाधि <=> पुरुष - प्रकृति - अन्तःकरण
अहं ब्रह्मास्मि । तत्त्वमसि । सोऽहम् ।
४. वृत्ति सारूप्यम् इतरत्र ।
५. वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ।
६. प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ।
७. प्रत्यक्षानुमानागमाः प्रमाणानि ।
अन्यत्र -- प्रत्यक्ष - अनुमान - आगम - उपमान - अर्थापत्ति - अनुपलब्दि
प्रम (यथार्थ ज्ञानम् ) x भ्रम (= अप्रम )
अनुमान प्रमाण --> पक्षम् - साध्यम् - हेतुः - दृष्टान्तम्
आगम प्रमाण - आप्त वाक्यम् (वेद वाक्यम्)
८. विपर्ययो मिथ्याज्ञानम् अतद्रूप प्रतिष्ठम् ।
९. शब्द ज्ञानानुपाती वस्तुशून्यो विकल्पः ।
१०. अभाव प्रत्ययालम्बना वृत्तिर्निद्रा ।
- तमो गुण प्रभावात्
"जागृति - सुप्त - स्वप्न - तुरीय" अवस्थाः
११. अनुभूत विषयासम्प्रमोषः स्मृतिः ।
१२. अभ्यास वैराग्याभ्यां तन्निरोधः ।
१३. तत्र स्थितौ यत्नः अभ्यासः ।
यम - नियम -- आसन - प्राणायाम - प्रत्याहार -- धारण - ध्यान - समाधि
१४. स तु दीर्घकाल नैरन्तर्य सत्कार आसेवितो दृढभूमिः ।
१५. दृष्टानुश्रविक विषय वितृष्णस्य वशीकार संज्ञा वैराग्यम् ।
वैराग्यम् --> १. अपर वैराग्यम्, २. परवैराग्यम्
अपर वैराग्यम् --> १. यतमान , २. व्यतिरेक , ३. एकेन्द्रिय , ४. वशीकार
१६. तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ।
-- पर वैराग्यम् -- गुणातीत स्थिति --> असम्प्रज्ञात स्थिति
१७. वितर्क विचार आनन्द आस्मित आरूपानुगमात् सम्प्रज्ञातः ।
समाधि --> १. सम्प्रज्ञात समाधि , २. असम्प्रज्ञात समाधि
सम्प्रज्ञात --- वितर्क -> विचार -> आनन्द -> आस्मित
वितर्क -- सवितर्क, निर्वितर्क --> पञ्चभूतानि, इन्द्रियानि विषये ध्यानम्
विचार -- सविचार, निर्विचार --> तन्मात्रानि विषये ध्यानम्
आनन्द -- सत्त्व गुण प्रधान स्थिति, अहङ्कार एव...
आस्मित -- सत्त्व गुणम् एव... पुरुषस्य प्रतिबिम्बम् दृश्यते --> प्रकृतिलयाः, विदेहाः
साङ्ख्य दर्शनात् --
पुरुष (२५) === प्रकृति (२४) => बुद्धि (महत्) + अहङ्कार + मनस् (२३,२२,२१) => पङ्च तन्मात्रानि + पङ्च भूतानि + दश इन्द्रियानि (५ + ५+ १०)
१८. विरामप्रत्ययाभ्यासपूर्वः संस्कार शेषः अन्यः ।
विराम प्रत्ययम् -> पर वैराग्यम्
अन्यः --> असम्प्रज्ञात समाधि स्थितिः, तु संस्कार शेषः
असम्प्रज्ञात -- भव प्रत्ययम् , उपाय प्रत्ययम्
१९. भवप्रत्ययो विदेहप्रकृतिलयानाम् ।
विदेह-प्रकृतिलयानाम् --> भव प्रत्ययम्
२०. श्रद्धा वीर्य स्मृति समाधि प्रज्ञा पूर्वक इतरेषाम् ।
इतरेषाम् = अन्येषाम् (विदेह - प्रकृतिलयेभ्यः भिन्नाः) --> उपाय प्रत्ययम्
उपायाः --> श्रद्धा - वीर्य - स्मृति - समाधि - प्रज्ञा
२१. तीव्र संवेगानाम् आसन्नः ।
मृदु --> मृदु - मध्य - तीव्र
मध्य --> मृदु - मध्य - तीव्र
अधिमात्र --> मृदु - मध्य - तीव्र
२२. मृदु मध्य अधिमात्रत्वात् ततोऽपि विशेषः ।
२३. ईश्वर प्रणिधानात् वा ।
२४. क्लेश कर्म विपाक आशयैः अपरामृष्टः पुरुष विशेषः ईश्वरः ।
क्लेशाः --> अविद्या- अस्मिता - राग - द्वेष - अभिनिवेशः
कर्म --> धर्म - अधर्म (सञ्चित - प्रारब्ध - आगामि)
विपाक --> कर्म फलम् -- जाति - आयुः - भोगः
आशयैः --> संस्कारैः
२५. तत्र निरतिशयं सर्वज्ञत्व बीजम् ।
२६. स पूर्वेषाम् अपि गुरुः कालेन अनवच्छेदात् ।
२७. तस्य वाचकः प्रणवः ।
प्रणवः -- > ॐ
२८. तत् जपः तत् अर्थ भावनम् ।
ॐ --> तत् जपः, अर्थः, भावन्म्
२९. ततः प्रत्यक्-चेतन-अधिगमोऽपि अन्तरायः अभावश्च ।
प्रत्यक् चेतना (-->०<--)
पराङ्ग चेतना (<--० -->)
ते अन्तरायाः --> व्याधि-स्त्यान-..., तेषाम् अभावः
३०. व्याधि-स्त्यान-संशय-प्रमाद-आलस्य-अविरति-भ्रान्ति दर्शन-अलब्ध भूमिकत्व-अनवस्थितत्वानि चित्तविक्षेपाः तेऽन्तरायाः ।
९ चित्त विक्षेपाः अन्तरायाः
३१. दुःख-दौर्मनस्य-अङ्गमेजयत्व-श्वासप्रश्वासाः विक्षेप सहभुवः ।
३२. तत् प्रतिषेधार्थम् एक तत्त्व अभ्यासः ।
एक तत्त्व -- ईश्वर तत्त्व - ॐ कार
३३. मैत्री-करुणा-मुदित-उपेक्षेणां सुख-दुःख-पुण्य-अपुण्य-विषयाणां भावनातः चित्त प्रसादनम् ।
३४. प्रच्छर्दन विधारणाभ्यां वा प्राणस्य ।
प्रच्छर्दन --> रेचकम्
विधारण --> कुम्भकम्
३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ।
नासाग्रे - गन्ध सम्बन्ध प्रवृत्ति
जिह्वाग्रे - रस प्रवृत्ति
तालु - रूप प्रवृत्ति
जिह्व मध्ये - स्पर्श प्रवृत्ति
जिह्व मूले - शब्द प्रवृत्ति
३६. विशोका वा ज्योतिष्मती ।
हृद्गुहे अष्टदल कमलम् --- रेचकात् अधोमुखतः -> ऊर्ध्वमुखम्
३७. वीतराग विषयं वा ।
वीतरागानाम् विषयम्
३८. स्वप्न-निद्रा ज्ञानालम्बनं वा ।
३९. यथा अभिमत ध्यानात् वा ।
४०. परमाणु परममहत्त्व अन्तः अस्य वशीकारः ।
४१.क्षीणवृत्तेः अभिजातस्य इव मणेः ग्रहीतृ-ग्रहण-ग्राह्येषु तत्स्थ तदञ्जनता समापत्तिः ।
४२. तत्र शब्द-अर्थ-ज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ।
सबीज समाधि -->
सवितर्का - निर्वितर्का
सविचार -निर्विचार
सानन्द
सास्मिता
४३. स्मृति परिशुद्धौ स्वरूप शून्य इव अर्थ मात्र निर्भासा निर्वितर्का ।
स्थूल भूत सम्बन्धम् --> सवितर्क-निर्वितर्का
सूक्ष्मभूत सम्बन्धम् --> सविचार-निर्विचारा
४४. एतया एव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ।
४५. सूक्षमविषयत्वं च अलिङ्ग पर्यवसानम् ।
अलिङ्ग -- प्रधान तत्त्वम् ,
४६. ता एव सबीजः समाधिः ।
सवितर्क + निर्वितर्क + सविचार + निर्विचार --> सबीज
४७. निर्विचार वैशारद्ये अध्यात्म प्रसादः ।
४८. ऋतम्भरा तत्र प्रज्ञा ।
सत् --> ऋतम्, सत्यम्
४९. शृत-अनुमान प्रज्ञाभ्याम् अन्य विषया विशेष अर्थत्वात् ।
५०.तज्जः संस्कारः अन्य संस्कार प्रतिबन्धी ।
तत् --> सजीव समाधि, तज्जः -- तस्मिन् जनितः
५१. तस्यापि निरोधे सर्वनिरोधात् निर्बीजः समाधिः ।
सर्व संस्कार निरोधात्--> निर्बीज समाधिः
(इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः)
No comments:
Post a Comment