१. तपः स्वाध्याय ईश्वरप्रणिधानानि क्रियायोगः ।
२. समाधि भावनार्थः क्लेश तनू-करणार्थः च ।
क्रियायोगात् --> समाधि भावना, क्लेश तनू करणम्
३.अविद्या -अस्मिता-राग-द्वेष-अभिनिवेशाः क्लेशाः ।
पञ्च क्लेशाः = अविद्या --> अस्मिता --> राग --> द्वेष --> अभिनिवेश
४. अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्न-उदाराणाम् ।
प्रसुप्त - तनु - विच्छिन्न-उदार --> चतस्रः अवस्थाः
५. अनित्य-अशुचि-दुःख-अनात्मसु नित्य-शुचि-सुख-आत्म ख्यातिः अविद्या ।
नित्य --> कालातीतः,
शुचि --> त्रिगुणेभ्यः शुचि
सुख --> क्लेश अतीतः
आत्म --> पुरुष स्वरूपः
६. दृक्-दर्शनशक्त्योः एकात्मता इव अस्मिता ।
दृक् शक्ति-- पुरुषः
दर्शन शक्ति - बुद्धिः (अन्तःकरणाः)
७. सुख अनुशयी रागः ।
८. दुःख अनुशयी द्वेषः ।
९. स्वरसवाही विदुषः अपि तथा आरूढः अभिनिवेशः ।
१०.ते प्रति-प्रसव हेयाः सूक्ष्माः ।
प्रति-प्रसव = अविद्या <-- अस्मिता <-- राग <-- द्वेष <-- अभिनिवेश
११. ध्यान हेयाः तद् वृत्तयः ।
१२. क्लेशमूलः कर्माशयः दृष्ट-अदृष्ट जन्म वेदनीयः ।
१३. सति मूले तद् विपाकः जाति-आयुः-भोगाः ।
१४. ते ह्लाद-परिताप फलाः पुण्य-अपुण्य हेतुत्वात् ।
१५. परिणाम-ताप-संस्कार-दुःखैः गुण-वृत्ति विरोधात् च दुःखम् एव सर्वं विवेकिनः ।
१६. हेयं दुःखम् अनागतम् ।
सञ्चित - प्रारब्ध - आगामि कर्माः
आगामि कर्मेभ्यः दुःखं हेयम् ।
१७. द्रष्टृ-दृश्ययोः संयोगः हेयहेतुः ।
द्र्ष्टृ - पुरुष + दृश्य - प्रकृति --> संयोगः --> अस्मिता
१८. प्रकाश-क्रिया-स्थिति-शीलम् भूत-इन्द्रिय-आत्मकं भोग-अपवर्ग-अर्थं दृश्यम् ।
प्रकाश <-- सत्त्व + क्रिया <-- रजो + स्थिति <-- तमो
भूत -- पञ्चभूतानि (स्थूल & सूक्ष्म ) + इन्द्रिय -- दशेन्द्रियानि
१९. विशेष-अविशेष लिङ्गमात्र-अलिङ्गानि गुण पर्वाणि ।
गुण पर्वाणी ==>> विशेष -> अविशेष -> लिङ्गमात्र -> अलिङ्ग
वितर्क समाधि --> विशेष ----- स्थूल भूतानि (आकाश-वायु-अग्नि-अप्-पृथ्वी ; श्रोत्र-त्वक्-चक्षु-जिह्व-घ्राण; वाग्-पाणि-पाद-पायु-उपस्थ; मनस् ) --- मनोमय कोश
विचार समाधि --> अविशेष ----- तन्मात्रानि (सूक्ष्म भूतानि -- आकाश ; वायु ; अग्नि ; अप् ; पृथ्वी ) --- विज्ञानमय कोश
आनन्द समाधि --> लिङ्गमात्र ----- बुद्धि (महत्) --- आनन्दमय कोश
अस्मिता समाधि --> अलिङ्गानि ----- प्रधानं, मूलप्रकृति --- विदेह, प्रकृतिलयाः
२०. द्र्ष्टा दृशिमात्रः शुद्धः अपि प्रत्यानुपश्यः ।
२१. तदर्थः एव दृश्यस्य आत्मा ।
२२. कृतार्थं प्रति नष्टम् अपि अनष्टं तत् अन्य साधरणत्वात् ।
कृतार्थानाम् --> (प्रकृति) नष्टम्
अन्येषाम् --> (प्रकृति) अनष्टम्
२३. स्व-स्वामि-शक्त्योः स्वरूप-उपलब्धि हेतुः संयोगः ।
स्व = प्रकृति, स्वामि = पुरुष
स्वरूप-उपलब्धि = पुरुषस्य निजरूपार्थम् , हेतुः --> संयोगः (प्रकृति-पुरुषयोः)
२४. तस्य हेतुः अविद्या ।
संयोग कारणम् --> अविद्या
२५. तद्-अभावात् संयोग-अभावः हानं तद् दृशेः कैवल्यम् ।
तद्-अभावात् = अविद्यायाः अभावात् --> संयोगस्य अभावः
तद् हानं = संयोगस्य हानं --> दृशेः कैवल्यम्
२६. विवेकख्यातिः अविप्लवा हान-उपायः ।
अविप्लवा = अविच्छिन्न --> विवेकख्याति (नित्य-अनित्य विवेक ज्ञानम्) --> संयोगस्य हानं
२७. तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ।
कार्यविमुक्त सञ्ज्ञाः --> ४
१. जिज्ञासा निवृत्ति (ज्ञेय-शून्य अवस्था)
२.जिहासा निवृत्ति (हेय-शुन्य अवस्था)
३.प्रेप्सा निवृत्ति (प्राप्य-प्राप्त अवस्था)
४.चिकीर्षा निवृत्ति (चिकीर्षा-शून्य अवस्था)
चित्तविमुक्त सञ्ज्ञाः --> ३
१.चित्त कृतार्थता (दुःख निवृत्ति)
२.गुणलीनता (भय निवृत्ति)
३.आत्मस्थिति (केवल चैतन्यम्)
१. जिज्ञासा निवृत्ति (ज्ञेय-शून्य अवस्था)
२.जिहासा निवृत्ति (हेय-शुन्य अवस्था)
३.प्रेप्सा निवृत्ति (प्राप्य-प्राप्त अवस्था)
४.चिकीर्षा निवृत्ति (चिकीर्षा-शून्य अवस्था)
चित्तविमुक्त सञ्ज्ञाः --> ३
१.चित्त कृतार्थता (दुःख निवृत्ति)
२.गुणलीनता (भय निवृत्ति)
३.आत्मस्थिति (केवल चैतन्यम्)
२८. योगाङ्ग अनुष्ठानात् अशुद्धि-क्षये ज्ञान-दीप्तिः आविवेकख्यातेः ।
२९. यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः अष्टौ अङ्गानि ।
यम -> नियम -->
आसन -> प्राणायम ->
प्रत्याहार ->
धारणा -> ध्यान -> समाधि
३०. अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाः यमाः ।
३१. जाति-देश-काल-समय-अनवच्छिन्नाः सार्वभौमाः महाव्रतम् ।
३२. शौच-सन्तोष-तपः-स्वाध्याय-ईश्वरप्रणिधानानि नियमाः ।
३३. वितर्क बाधने प्रतिपक्ष भावनम् ।
प्रतिपक्ष भावनम् यत् , अग्रिम सूत्रे दर्शितम्
३४. वितर्काः हिंसादयः ; कृत-कारित-अनुमोदिताः, लोभ-क्रोध-मोह-पूर्वकाः, मृदु-मध्य-अधिमात्राः ; दुःख-अज्ञान-अनन्त-फलाः ; इति प्रतिपक्ष भावनम् ।
३५. अहिंसा प्रतिष्ठायां तत् सन्निधौ वैरत्यागः ।
३६. सत्य प्रतिष्ठायां क्रियाफलाश्रयत्वम् ।
३७. अस्तेय प्रतिष्ठायां सर्व रत्न उपस्थानम् ।
३८. ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः ।
३९. अपरिग्रह स्थैर्ये जन्म कथन्ता सम्बोधः ।
४०. शौचात् स्वाङ्ग जुगुप्सा, परैः असंसर्गः ।
४१. सत्त्वशुद्धि-सौमनस्य-एकाग्र्य-इन्द्रियजय-आत्मदर्शन-योग्यत्वानि च ।
सत्त्वशुद्धि -- सत्त्व गुण शुद्धि, रजो-तमो गुण न्यूनीकरणम्
४२. सन्तोषात् अनुत्तम्मः लाभः ।
४३. काय-इन्द्रिय-सिद्धिः अशुद्धिक्षयात् तपसः ।
तपस् --> अशुद्धिक्षयः --> कायेन्द्रियसिद्धिः
४४. स्वाध्यायात् इष्टदेवता सम्प्रयोगः ।
४५. समाधि-सिद्धिः ईश्वर-प्रणुधानात् ।
ईश्वरप्रणिधान --> परवैरग्यम्
४६. स्थिर-सुखम् आसनम् ।
४७. प्रयत्न-शैथिल्य अनन्त-समापत्तिभ्याम् ।
अनन्तः --> आदिशेषः, सहस्रशीर्षम् , आकाशः, अनन्त-प्राणशक्ति (यतः पृथ्वी स्व-कक्ष्याम् स्थिरम् चलति).
४८. ततः द्वन्द्व-अनभिघातः ।
द्वन्द्व --> शीतोष्णम्, सुखदुःखम्, मानावमानम् ...
४९. तस्मिन् सति श्वास-प्रश्वासयोः गति-विच्छेदः प्राणायामः ।
तस्मिन् --> आसन सिद्ध्याम्
श्वास -- पूरक ; प्रश्वास -- रेचक
कुम्भक --> सहित कुम्भक ; केवल कुम्भक
सहित कुम्भक --> अष्ट कुम्भकाः --> सूर्यभेदनम् - उज्जायि - सीत्कारि - शीतलि - भस्त्रिका - भ्रामरि - मूर्च्छा - प्लावनि
प्राणायामः --> प्राणमय कोश
५०. बाह्य-अभ्यन्तर-स्थम्भ-वृत्तिः देश-काल-सङ्ख्याभिः परिदृष्टः दीर्घ-सूक्ष्मः ।
>> १. बाह्य (रेचक) २. अभ्यन्तर (पूरक) ३. स्थम्भ (कुम्भक) ४. केवल कुम्भक
५१. बाह्य-अभ्यन्तर विषय-आक्षेपी चतुर्थः ।
>> ४. केवल कुम्भकम्
५२. ततः क्षीयते प्राकाश-आवरणम् ।
प्राणमय कोशस्य आवरणम् क्षीयते
५३. धारणासु च योग्यता मनसः ।
प्राणायाम --> धारणा --> ध्यान --> समाधि
५४. स्व-विषय-असम्प्रयोगे चित्त-स्वरूप-अनुकारः इव इन्द्रियाणां प्रत्याहारः ।
विषयाः --> शब्द-स्पर्श-रूप-रस-गन्धाः
भूतानि <--> इन्द्रियानि <--> तन्मात्रानि <---> चित्त (मनस् )-- बुद्धि
५५. ततः परमा वश्यते इन्द्रियाणाम् ।
No comments:
Post a Comment